{"id":"rv.1.164.16","work":"rigveda","ref":{"mandala":1,"sukta":164,"rc":16},"label_deva":"ऋग्वेद १.१६४.१६","label_iast":"Ṛgveda 1.164.16","text":{"deva":"स्त्रिय॑ः स॒तीस्ताँ उ॑ मे पुं॒स आ॑हु॒ः पश्य॑दक्ष॒ण्वान्न वि चे॑तद॒न्धः । क॒विर्यः पु॒त्रः स ई॒मा चि॑केत॒ यस्ता वि॑जा॒नात्स पि॒तुष्पि॒तास॑त् ॥","iast":"striya̍ḥ sa̱tīstām̐ u̍ me pu̱ṃsa ā̍hu̱ḥ paśya̍dakṣa̱ṇvānna vi ce̍tada̱ndhaḥ | ka̱viryaḥ pu̱traḥ sa ī̱mā ci̍keta̱ yastā vi̍jā̱nātsa pi̱tuṣpi̱tāsa̍t ||","pada_deva":"स्त्रियः | सतीः | तान् | ॐ इति | मे | पुंसः | आआहुः | पश्यत् | अक्षण्-वान् | न | वि | चेतत् | अन्धः | कविः | यः | पुत्रः | सः | ईम् | आ | चिकेत | यः | ता | वि-जानात् | सः | पितुः | पिता | असत्","pada_iast":"striyaḥ | satīḥ | tān | oṃ iti | me | puṃsaḥ | āāhuḥ | paśyat | akṣaṇ-vān | na | vi | cetat | andhaḥ | kaviḥ | yaḥ | putraḥ | saḥ | īm | ā | ciketa | yaḥ | tā | vi-jānāt | saḥ | pituḥ | pitā | asat"},"lines":["striya̍ḥ sa̱tīstām̐ u̍ me pu̱ṃsa ā̍hu̱ḥ paśya̍dakṣa̱ṇvānna vi ce̍tada̱ndhaḥ |","ka̱viryaḥ pu̱traḥ sa ī̱mā ci̍keta̱ yastā vi̍jā̱nātsa pi̱tuṣpi̱tāsa̍t ||"],"lines_deva":["स्त्रिय॑ः स॒तीस्ताँ उ॑ मे पुं॒स आ॑हु॒ः पश्य॑दक्ष॒ण्वान्न वि चे॑तद॒न्धः ।","क॒विर्यः पु॒त्रः स ई॒मा चि॑केत॒ यस्ता वि॑जा॒नात्स पि॒तुष्पि॒तास॑त् ॥"],"meta":{"rishi":"दीर्घतमा औचथ्यः","devata":"१-४१ विश्वे देवाः, ४२ आद्यर्धर्चस्य वाक्, द्वितीयस्य आपः, ४३ आद्यर्धर्चस्य शकधूमः, द्वितीयस्य सोमः, ४४ केशिनः( अग्निः सूर्यो वायुश्च), ४५ वाक्, ४६ - ४७ सूर्यः, ४८ संवत्सरकालचक्रम्, ४९ सरस्वती, ५० साध्याः, ५१ सूर्यः, पर्जन्याग्नयो वा, ५२ सरस्वान्, सूर्यो वा","chandas":"त्रिष्टुप, १२, १५, २३, २९, ३६, ४१ जगती, ४२ प्रस्तारपंक्तिः, ५१ अनुष्टुप्","note":"दे. १-४१ विश्वे देवाः, ४२ आद्यर्धर्चस्य वाक्, द्वितीयस्य आपः, ४३ आद्यर्धर्चस्य शकधूमः, द्वितीयस्य सोमः, ४४ केशिनः( अग्निः सूर्यो वायुश्च), ४५ वाक्, ४६ - ४७ सूर्यः, ४८ संवत्सरकालचक्रम्, ४९ सरस्वती, ५० साध्याः, ५१ सूर्यः, पर्जन्याग्नयो वा, ५२ सरस्वान्, सूर्यो वा। त्रिष्टुप, १२, १५, २३, २९, ३६, ४१ जगती, ४२ प्रस्तारपंक्तिः, ५१ अनुष्टुप्"},"provenance":{"text.deva":"sa-wikisource-rigveda-samhita","text.iast":"sa-wikisource-rigveda-samhita","text.pada_deva":"sa-wikisource-rigveda-padapatha","text.pada_iast":"sa-wikisource-rigveda-padapatha","meta":"sa-wikisource-rigveda-suktas"},"agreement":"confirmed","variants":[],"translations":[{"lang":"en","text":"They told me these were males, though truly females: he who hath eyes sees this, the blind discerns not. The son who is a sage hath comprehended: who knows this rightly is his father's father.","translator":"Ralph T.H. Griffith","source":"en-wikisource-griffith-1896","status":"signed","method":"human"}],"gloss":[],"_links":{"self":"https://sanatan.digital/api/v1/rv/1.164.16.json","html":"https://sanatan.digital/rv/1.164.16","work":"https://sanatan.digital/api/v1/works/rigveda.json"}}