Ṛgveda Saṃhitā 1.179
6 verses
Listen
No recitation by a named reciter exists for this verse yet. Around eleven śākhās are still recited by an unbroken chain of teachers, and recording them is the most time-critical work in this project. If you recite, please get in touch.
This is not recitation. No operating system has a Sanskrit voice, so the Sanskrit is spoken by a borrowed voice that applies the wrong phonology and ignores the udātta and anudātta marks entirely. Those accents carry meaning. Treat this as a rough pronunciation aid for a reader who cannot read Devanagari, and never as a model for pāṭha.
- Ṛgveda 1.179.1 पू॒र्वीर॒हं श॒रद॑ः शश्रमा॒णा दो॒षा वस्तो॑रु॒षसो॑ ज॒रय॑न्तीः । मि॒नाति॒ श्रियं॑ जरि॒मा त॒नूना॒मप्यू॒ नु पत्नी॒र्वृष॑णो जगम्युः ॥
- Ṛgveda 1.179.2 ये चि॒द्धि पूर्व॑ ऋत॒साप॒ आस॑न्सा॒कं दे॒वेभि॒रव॑दन्नृ॒तानि॑ । ते चि॒दवा॑सुर्न॒ह्यन्त॑मा॒पुः समू॒ नु पत्नी॒र्वृष॑भिर्जगम्युः ॥
- Ṛgveda 1.179.3 न मृषा॑ श्रा॒न्तं यदव॑न्ति दे॒वा विश्वा॒ इत्स्पृधो॑ अ॒भ्य॑श्नवाव । जया॒वेदत्र॑ श॒तनी॑थमा॒जिं यत्स॒म्यञ्चा॑ मिथु॒नाव॒भ्यजा॑व ॥
- Ṛgveda 1.179.4 न॒दस्य॑ मा रुध॒तः काम॒ आग॑न्नि॒त आजा॑तो अ॒मुत॒ः कुत॑श्चित् । लोपा॑मुद्रा॒ वृष॑णं॒ नी रि॑णाति॒ धीर॒मधी॑रा धयति श्व॒सन्त॑म् ॥
- Ṛgveda 1.179.5 इ॒मं नु सोम॒मन्ति॑तो हृ॒त्सु पी॒तमुप॑ ब्रुवे । यत्सी॒माग॑श्चकृ॒मा तत्सु मृ॑ळतु पुलु॒कामो॒ हि मर्त्य॑ः ॥
- Ṛgveda 1.179.6 अ॒गस्त्य॒ः खन॑मानः ख॒नित्रै॑ः प्र॒जामप॑त्यं॒ बल॑मि॒च्छमा॑नः । उ॒भौ वर्णा॒वृषि॑रु॒ग्रः पु॑पोष स॒त्या दे॒वेष्वा॒शिषो॑ जगाम ॥
- 1.179.1पू॒र्वीर॒हं श॒रद॑ः शश्रमा॒णा दो॒षा वस्तो॑रु॒षसो॑ ज॒रय॑न्तीः । मि॒नाति॒ श्रियं॑ जरि॒मा त॒नूना॒मप्यू॒ नु पत्नी॒र्वृष॑णो जगम्युः ॥
- 1.179.2ये चि॒द्धि पूर्व॑ ऋत॒साप॒ आस॑न्सा॒कं दे॒वेभि॒रव॑दन्नृ॒तानि॑ । ते चि॒दवा॑सुर्न॒ह्यन्त॑मा॒पुः समू॒ नु पत्नी॒र्वृष॑भिर्जगम्युः ॥
- 1.179.3न मृषा॑ श्रा॒न्तं यदव॑न्ति दे॒वा विश्वा॒ इत्स्पृधो॑ अ॒भ्य॑श्नवाव । जया॒वेदत्र॑ श॒तनी॑थमा॒जिं यत्स॒म्यञ्चा॑ मिथु॒नाव॒भ्यजा॑व ॥
- 1.179.4न॒दस्य॑ मा रुध॒तः काम॒ आग॑न्नि॒त आजा॑तो अ॒मुत॒ः कुत॑श्चित् । लोपा॑मुद्रा॒ वृष॑णं॒ नी रि॑णाति॒ धीर॒मधी॑रा धयति श्व॒सन्त॑म् ॥
- 1.179.5इ॒मं नु सोम॒मन्ति॑तो हृ॒त्सु पी॒तमुप॑ ब्रुवे । यत्सी॒माग॑श्चकृ॒मा तत्सु मृ॑ळतु पुलु॒कामो॒ हि मर्त्य॑ः ॥
- 1.179.6अ॒गस्त्य॒ः खन॑मानः ख॒नित्रै॑ः प्र॒जामप॑त्यं॒ बल॑मि॒च्छमा॑नः । उ॒भौ वर्णा॒वृषि॑रु॒ग्रः पु॑पोष स॒त्या दे॒वेष्वा॒शिषो॑ जगाम ॥